१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.53. अध्यायः 053
Mahabharata - Ashvamedhika Parva - Chapter Topics
कुरुपुराद्द्वारकां गच्छता कृष्णेन मध्येमार्गं दृष्टेनोदङ्केन सह संवादः॥1 ॥ तथा कौरवादिविनाशे स्वोपेक्ष्याया हेतुत्वधिया स्वंप्रति शापदानोद्यतोदङ्कपरिसान्त्वनाय तंप्रति तत्वकथनोपक्रमः॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः।
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः॥ 14-53-1(93918)
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः।
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः॥ 14-53-2(93919)
कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम्।
संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः॥ 14-53-3(93920)
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः।
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु॥ 14-53-4(93921)
वायुर्वेगेन महता रथस्य पुरतो ववौ।
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्॥ 14-53-5(93922)
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च।
दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः॥ 14-53-6(93923)
स प्रयातो महाबाहुः समेषु मरुधन्वसु।
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम्॥ 14-53-7(93924)
`महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम्।'
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः।
पूजितस्तेन च तदा पर्यपृच्छदनामयम्॥ 14-53-8(93925)
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्।
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्॥ 14-53-9(93926)
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्।
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि॥ 14-53-10(93927)
अपि सन्धाय तान्वीरानुपावृत्तोसि केशव।
सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव॥ 14-53-11(93928)
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः।
लोकेषु विहरिष्यन्ति त्वया सह परंतप॥ 14-53-12(93929)
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्।
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव॥ 14-53-13(93930)
या मे सम्भावना तात त्वयि नित्यमवर्तत।
अपि सा सफला तात कृता ते भरतान्प्रति॥ 14-53-14(93931)
श्रीभगवानुवाच। 14-53-15x(7870)
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति।
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा। 14-53-15(93932)
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा।
महर्षे विदितं भूयः सर्वमेतत्तवानघ॥ 14-53-16(93933)
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च।
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्॥ 14-53-17(93934)
पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः।
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः॥ 14-53-18(93935)
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः।
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः॥ 14-53-19(93936)
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः।
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्॥ 14-53-20(93937)
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः।
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन॥ 14-53-21(93938)
त्वया शक्तेन हि सता मिथ्याचारेणि माधव।
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः॥ 14-53-22(93939)
वासुदेव उवाच। 14-53-23x(7871)
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन।
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम्॥ 14-53-23(93940)
श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै।
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्॥ 14-53-24(93941)
न च ते तपसो नाशमिच्छामि तपतां वर।
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः॥ 14-53-25(93942)
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम।
दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम्॥ ॥ 14-53-26(93943)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिपञ्चाशोऽध्यायः॥ 53 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-53-15 सौशाम्ये सौरस्ये॥ 7-53-22 परीताः परितः प्राप्ताः॥ 7-53-23 अनुनयं शिक्षाम्॥ 7-53-24 मे मत्तः॥


|